Skip to playerSkip to main contentSkip to footer
  • 5/12/2025
कूर्म स्तोत्रम् | Kurma Stotram | Kurma Puran | Kurma Jayanti @Mere Krishna

#kurma #कूर्म #नारायण #narayan #stotram #stotra

कूर्मस्तोत्रम्

सूत उवाच ।
एतावदुक्त्वा भगवान् विरराम जनार्दनः ।
तुष्टुवुर्मुनयो विष्णुं शक्रेण सह माधवम् ॥ १॥

मुनयः ऊचुः ।
नमस्ते कूर्मरूपाय विष्णवे परमात्मने ।
नारायणाय विश्वाय वासुदेवाय ते नमः ॥ २॥

नमो नमस्ते कृष्णाय गोविन्दाय नमो नमः ।
माधवाय नमस्तुभ्यं नमो यज्ञेश्वराय च ॥ ३॥

सहस्रशिरसे तुभ्यं सहस्राक्षाय ते नमः ।
नमः सहस्रहस्ताय सहस्रचरणाय च ॥ ४॥

ॐ नमो ज्ञानरूपाय परमात्मस्वरूपिणे ।
आनन्दाय नमस्तुभ्यं मायातीताय ते नमः ॥ ५॥

नमो गूढशरीराय निर्गुणाय नमोऽस्तु ते ।
पुरुषाय पुराणाय सत्तामात्रस्वरूपिणे ॥ ६॥

नमः साङ्ख्याय योगाय केवलाय नमोऽस्तु ते ।
धर्मज्ञानाधिगम्याय निष्कलाय नमोऽस्तु ते ॥ ७॥

नमस्ते व्योमरूपाय महायोगेश्वराय च ।
परावराणां प्रभवे वेदवेद्याय ते नमः ॥ ८॥

नमो बुद्धाय शुद्धाय नमो युक्ताय हेतवे ।
नमो नमो नमस्तुभ्यं मायिने वेधसे नमः ॥ ९॥

नमोऽस्तु ते वराहाय नारसिंहाय ते नमः ।
वामनाय नमस्तुभ्यं हृषीकेशाय ते नमः ॥ १०॥

स्वर्गापवर्गदात्रे च नमोऽप्रतिहतात्मने ।
नमो योगाधिगम्याय योगिने योगदायिने ॥ ११॥

देवानां पतये तुभ्यं देवार्त्तिशमनाय ते ।
भगवंस्त्वत्प्रसादेन सर्वसंसारनाशनम् ॥ १२॥

अस्माभिर्विदितं ज्ञानं यज्ज्ञात्वामृतमश्नुते ।
श्रुतास्तु विविधा धर्मा वंशा मन्वन्तराणि च ॥ १३॥

सर्गश्च प्रतिसर्गश्च ब्रह्माण्डस्यास्य विस्तरः ।
त्वं हि सर्वजगत्साक्षी विश्वो नारायणः परः ॥ १४॥

त्रातुमर्हस्यनन्तात्मा त्वामेव शरणं गताः ।

इति कूर्मपुराणे उत्तरभागे षट्चत्वारिंशाध्यायान्तर्गतं
मुनिभिः कृतं कूर्मस्तोत्रं समाप्तम्

Category

📚
Learning
Transcript
00:00कूर्म स्तोत्रम सूत उवाच एताव दुप्त्वा भगवान विरराम जनार्दनह तुष्टु वुर्मुनयो विष्णुम् शक्रेण सहमाधवं मुनयह उचुहु।
00:19नमस्ते कूर्मरूपाय विष्णवे परमात्मने नारायनाय विश्वाय वासुदेवायते नमह नमो नमस्ते कृष्णाय गोविंदाय नमो नमह माधवाय नमस्तुभ्यं नमो यग्यश्वरायच सहस्रशिरसे तुभ्यं
00:48सहस्राक्षायते नमह, नमह सहस्रहस्ताय, सहस्रचरणायच, ओम नमो ज्याने रूपाय, परमात्म सरूपिने, आनन्दाय नमस्तुभ्यम, मायातीतायते नमह,
01:12नमो गूढ शरीराय, निर्गुनाय नमो स्तुटे, उरूशाय पुरानाय, सत्ता मात्र स्वरू पिने, नमह सांख्याय योगाय, केवलाय नमो स्तुटे, धर्म ज्याना धिगम्याय, निश्कलाय नमो स्तुटे,
01:38नमस्ते व्योमरूपाय, महायोगेश्वरायच, परावराणाम् प्रभवे, वेदवेद्यायते नमह, नमो बुद्धाय शुद्धाय, नमो युक्ताय हेतवे, नमो नमो नमस्तुभ्यम्, मायिने वेधसे नमह,
02:04नमो स्तुते वराहाय, नार सिंहायते नमह, वामनाय नमस्तुभ्यम्, रिशीकेशायते नमह, स्वर्गाप वर्गदात्रेच, नमो प्रतिहतात्मने, नमो योगाधिगम्याय, योगिने योगदाईने,
02:31देवानांपतये तोभ्यम्, देवार्तिशमनायते, भगवन्स्त्वत्प्रसादेन, सर्वसंसारनाशनम्, अस्माभिर्विदितम् ज्यानम्, यज्यात्वाम्रतमश्नुते,
02:50शृतास्तु विविधाधर्मा, वंशामन्वंतराणिच, सर्गष्च प्रतिसर्गष्च, ब्रह्मान्डस्यास्य विस्तरह, त्वम्ही सर्व जगत्साक्षी, विश्वो नारायनः परह,
03:11त्रातुमरहस्यनन्तात्मा, वामिवशर्णंगताहा, त्रातुमरहस्यनन्तात्मा, वामिवशर्णंगताहा,

Recommended